ब्रह्मसूत्र

नैकस्मिन्नसम्भवात्।।2.2.33।।

एकस्मिन्नसंभवाधिकरणम्।।2.2.33।।

निरस्तः सुगतसमयः विवसनसमय इदानीं निरस्यते। सप्त चैषां पदार्थाः संमताः जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम संक्षेपतस्तु द्वावेव पदार्थौ जीवाजीवाख्यौ यथायोगं तयोरेवेतरान्तर्भावात् इति मन्यन्ते। तयोरिममपरं प्रपञ्चमाचक्षते पञ्चास्तिकाया नाम जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायश्चेति। सर्वेषामप्येषामवान्तरभेदान्बहुविधान्स्वसमयपरिकल्पितान्वर्णयन्ति। सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यश्च स्यान्नास्ति चावक्तव्यश्च स्यादस्ति च नास्ति चावक्तव्यश्चेति एवमेवैकत्वनित्यत्वादिष्वपीमं सप्तभङ्गीनयं योजयन्ति।।

अत्राचक्ष्महे नायमभ्युपगमो युक्त इति कुतः एकस्मिन्नसंभवात्। न ह्येकस्मिन्धर्मिणि युगपत्सदसत्त्वादिविरुद्धधर्मसमावेशः संभवति शीतोष्णवत् य एते सप्तपदार्था निर्धारिता एतावन्त एवंरूपाश्चेति ते तथैव वा स्युः नैव वा तथा स्युः इतरथा हि तथा वा स्युरतथा वेत्यनिर्धारितरूपं ज्ञानं संशयज्ञानवदप्रमाणमेव स्यात्। नन्वनेकात्मकं वस्त्विति निर्धारितरूपमेव ज्ञानमुत्पद्यमानं संशयज्ञानवन्नाप्रमाणं भवितुमर्हति नेति ब्रूमः निरङ्कुशं ह्यनेकान्तत्वं सर्ववस्तुषु प्रतिजानानस्य निर्धारणस्यापि वस्तुत्वाविशेषात् स्यादस्ति स्यान्नास्ति इत्यादिविकल्पोपनिपातादनिर्धारणात्मकतैव स्यात् एवं निर्धारयितुर्निर्धारणफलस्य च स्यात्पक्षेऽस्तिता स्याच्च पक्षे नास्तितेति एवं सति कथं प्रमाणभूतः सन् तीर्थकरः प्रमाणप्रमेयप्रमातृप्रमितिष्वनिर्धारितासु उपदेष्टुं शक्नुयात् कथं वा तदभिप्रायानुसारिणस्तदुपदिष्टेऽर्थेऽनिर्धारितरूपे प्रवर्तेरन् ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोकोऽनाकुलः प्रवर्तते नान्यथा अतश्चानिर्धारितार्थं शास्त्रं प्रणयन् मत्तोन्मत्तवदनुपादेयवचनः स्यात्। तथा पञ्चानामस्तिकायानां पञ्चत्वसंख्या अस्ति वा नास्ति वा इति विकल्प्यमाना स्यात्तावदेकस्मिन्पक्षे पक्षान्तरे तु न स्यात् इत्यतो न्यूनसंख्यात्वमधिकसंख्यात्वं वा प्राप्नुयात्
। न चैषां पदार्थानामवक्तव्यत्वं संभवति अवक्तव्याश्चेन्नोच्येरन् उच्यन्ते चावक्तव्याश्चेति विप्रतिषिद्धम् उच्यमानाश्च तथैवावधार्यन्ते नावधार्यन्त इति च। तथा तदवधारणफलं सम्यग्दर्शनमस्ति वा नास्ति वा एवं तद्विपरीतमसम्यग्दर्शनमप्यस्ति वा नास्ति वा इति प्रलपन् मत्तोन्मत्तपक्षस्यैव पक्षः स्यात् न प्रत्ययितव्यपक्षस्य। स्वर्गापवर्गयोश्च पक्षे भावः पक्षे चाभावः तथा पक्षे नित्यता पक्षे चानित्यताइत्यनवधारणायां प्रवृत्त्यनुपपत्तिः। अनादिसिद्धजीवप्रभृतीनां च स्वशास्त्रावधृतस्वभावानामयथावधृतस्वभावत्वप्रसङ्गः। एवं जीवादिषु पदार्थेष्वेकस्मिन्धर्मिणि सत्त्वासत्त्वयोर्विरुद्धयोर्धर्मयोरसंभवात् सत्त्वे चैकस्मिन्धर्मेऽसत्त्वस्य धर्मान्तरस्यासंभवात् असत्त्वे चैवं सत्त्वस्यासंभवात् असंगतमिदमार्हतं मतम्। एतेनैकानेकनित्यानित्यव्यतिरिक्ताव्यतिरिक्ताद्यनेकान्ताभ्युपगमा निराकृता मन्तव्याः। यत्तु पुद्गलसंज्ञकेभ्योऽणुभ्यः संघाताः संभवन्तीति कल्पयन्ति तत्पूर्वेणैवाणुवादनिराकरणेन निराकृतं भवतीत्यतो न पृथक्तन्निराकरणाय प्रयत्यते।।