ब्रह्मसूत्र

विप्रतिषेधाच्च।।2.2.45।।

।।2.2.45।।

विप्रतिषेधश्च अस्मिन् शास्त्रे बहुविध उपलभ्यते गुणगुणित्वकल्पनादिलक्षणः ज्ञानैश्वर्यशक्तिबलवीर्यतेजांसि गुणाः आत्मान एवैते भगवन्तो वासुदेवा इत्यादिदर्शनात्। वेदविप्रतिषेधश्च भवति चतुर्षु वेदेषु परं श्रेयोऽलब्ध्वा शाण्डिल्य इदं शास्त्रमधिगतवानित्यादिवेदनिन्दादर्शनात्। तस्मात् असंगतैषा कल्पनेति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य द्वितीयः पादः।।