ब्रह्मसूत्र

आभास एव च।।2.3.50।।

।।2.3.50।।

आभास एव च एष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः न स एव साक्षात् नापि वस्त्वन्तरम्। अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः। एवमव्यतिकर एव कर्मफलयोः। आभासस्य च अविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति तद्व्युदासेन च पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिः। येषां तु बहव आत्मानः ते च सर्वे सर्वगताः तेषामेवैष व्यतिकरः प्राप्नोति कथम् बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानम् तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः। सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतोऽचेतना आत्मानः तदुपकरणानि च अणूनि मनांस्यचेतनानि तत्र आत्मद्रव्याणां मनोद्रव्याणां च संयोगात् नव इच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते ते च अव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति स संसारः तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः। तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्च एकस्य सुखदुःखसंबन्धे सर्वेषां सुखदुःखसंबन्धः प्राप्नोति। स्यादेतत् प्रधानप्रवृत्तेः पुरुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात् तथा च अनिर्मोक्षः प्रसज्येतेति नैतत्सारम् न हि अभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् उपपत्त्या तु कयाचिद्व्यवस्थोच्येत असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यम् प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः। काणादानामपि यदा एकेनात्मना मनः संयुज्यते तदा आत्मान्तरैरपि नान्तरीयकः संयोगः स्यात् संनिधानाद्यविशेषात् ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत।।

स्यादेतत् अदृष्टनिमित्तो नियमो भविष्यतीति नेत्याह