ब्रह्मसूत्र

प्रदेशादिति चेन्नान्तर्भावात्।।2.3.53।।

।।2.3.53।।

अथोच्येत विभुत्वेऽप्यात्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एव आत्मप्रदेशे भविष्यति अतः प्रदेशकृता व्यवस्था अभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति तदपि नोपपद्यते कस्मात् अन्तर्भावात् विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति तत्र न वैशेषिकैः शरीरावच्छिन्नोऽप्यात्मनः प्रदेशः कल्पयितुं शक्यः कल्प्यमानोऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति शरीरमपि सर्वात्मसंनिधावुत्पद्यमानम् अस्यैव आत्मनः नेतरेषाम् इति न नियन्तुं शक्यम्। प्रदेशविशेषाभ्युपगमेऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् तथा हि देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत् तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापि इतरेण समानः सुखदुःखानुभवो दृश्यते स न स्यात् यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमदृष्टं न स्यात्। स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वर्गाद्युपभोगस्य। सर्वगतत्वानुपपत्तिश्च बहूनामात्मनाम् दृष्टान्ताभावात् वद तावत् त्वम् के बहवः समानदेशाश्चेति रूपादय इति चेत् न तेषामपि धर्म्यंशेनाभेदात् लक्षणभेदाच्च न तु बहूनामात्मनां लक्षणभेदोऽस्ति अन्त्यविशेषवशाद्भेदोपपत्तिरिति चेत् न भेदकल्पनाया अन्त्यविशेषकल्पनायाश्च इतरेतराश्रयत्वात् आकाशादीनामपि विभुत्वं ब्रह्मवादिनोऽसिद्धम् कार्यत्वाभ्युपगमात्। तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये द्वितीयाध्यायस्य तृतीयः पादः।।