ब्रह्मसूत्र

वैशेष्यात्तु तद्वादस्तद्वादः।।2.4.22।।

।।2.4.22।।

तुशब्देन चोदितं दोषमपनुदति विशेषस्य भावो वैशेष्यम् भूयस्त्वमिति यावत् सत्यपि त्रिवृत्करणे क्वचित्कस्यचिद्भूतधातोर्भूयस्त्वमुपलभ्यते अग्नेस्तेजोभूयस्त्वम् उदकस्याब्भूयस्त्वम् पृथिव्या अन्नभूयस्त्वम् इति। व्यवहारप्रसिद्ध्यर्थं चेदं त्रिवृत्करणम् व्यवहारश्च त्रिवृत्कृतरज्जुवदेकत्वापत्तौ सत्याम् न भेदेन भूतत्रयगोचरो लोकस्य प्रसिध्येत्। तस्मात्सत्यपि त्रिवृत्करणे वैशेष्यादेव तेजोबन्नविशेषवादो भूतभौतिकविषय उपपद्यते। तद्वादस्तद्वादः इति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये द्वितीयोऽध्यायः।।