ब्रह्मसूत्र

तत्पूर्वकत्वाद्वाचः।।2.4.4।।

।।2.4.4।।

यद्यपि तत्तेजोऽसृजत इत्येतस्मिन्प्रकरणे प्राणानामुत्पत्तिर्न पठ्यते तेजोबन्नानामेव त्रयाणां भूतानामुत्पत्तिश्रवणात् तथापि ब्रह्मप्रकृतिकतेजोबन्नपूर्वकत्वाभिधानाद्वाक्प्राणमनसाम् तत्सामान्याच्च सर्वेषामेव प्राणानां ब्रह्मप्रभवत्वं सिद्धं भवति। तथा हि अस्मिन्नेव प्रकरणे तेजोबन्नपूर्वकत्वं वाक्प्राणमनसामाम्नायते अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् इति तत्र यदि तावन्मुख्यमेवैषामन्नादिमयत्वम् ततो वर्तत एव ब्रह्मप्रभवत्वम् अथ भाक्तम् तथापि ब्रह्मकर्तृकायां नामरूपव्याक्रियायां श्रवणात् येनाश्रुतं श्रुतं
भवति इति चोपक्रमात् ऐतदात्म्यमिदं सर्वम् इति चोपसंहारात् श्रुत्यन्तरप्रसिद्धेश्च ब्रह्मकार्यत्वप्रपञ्चनार्थमेव मनआदीनामन्नादिमयत्ववचनमिति गम्यते। तस्मादपि प्राणानां ब्रह्मविकारत्वसिद्धिः।।