ब्रह्मसूत्र

भोगेन त्वितरे क्षपयित्वा सम्पद्यते।।4.1.19।।

इतरक्षपणाधिकरणम्।।4.1.19।।

अनारब्धकार्ययोः पुण्यपापयोर्विद्यासामर्थ्यात्क्षय उक्तः। इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म संपद्यते तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये इति ब्रह्मैव सन्ब्रह्माप्येति इति च एवमादिश्रुतिभ्यः। ननु सत्यपि सम्यग्दर्शने यथा प्राग्देहपाताद्भेददर्शनं द्विचन्द्रदर्शनन्यायेनानुवृत्तम् एवं पश्चादप्युनुवर्तेत न निमित्ताभवात्। उपभोगशेषक्षपणं हि तत्रानुवृत्तिनिमित्तम् न च तादृशमत्र किंचिदस्ति। ननु अपरः कर्माशयोऽभिनवमुपभोगमारप्स्यते न तस्य दग्धबीजत्वात् मिथ्याज्ञानावष्टम्भं हि कर्मान्तरं देहपात
उपभोगान्तरमारभेत तच्च मिथ्याज्ञानं सम्यग्ज्ञानेन दग्धम् इत्यतः साध्वेतत् आरब्धकार्यक्षये विदुषः कैवल्यमवश्यं भवतीति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य प्रथमः पादः।।