ब्रह्मसूत्र

Introduction for Chapter 4, Quarter 2


।।ब्रह्मसूत्रभाष्यम्।।

।।चतुर्थोऽध्यायः।।
।।द्वितीयः पादः।।

अथ अपरासु विद्यासु फलप्राप्तये देवयानं पन्थानमवतारयिष्यन् प्रथमं तावत् यथाशास्त्रमुत्क्रान्तिक्रममन्वाचष्टे समाना हि विद्वदविदुषोरुत्क्रान्तिरिति वक्ष्यति