Introduction for Chapter 3, Quarter 4
।।ब्रह्मसूत्रभाष्यम्।।
।।तृतीयोऽध्यायः।।
।।चतुर्थः पादः।।
अथेदानीम् औपनिषदमात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशति आहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः सिद्धान्तेनैव तावदुपक्रमते