ब्रह्मसूत्र

अनावृत्तिः शब्दादनावृत्तिः शब्दात्।।4.4.22।।

।।4.4.22।।

नाडीरश्मिसमन्वितेन अर्चिरादिपर्वणा देवयानेन पथा ये ब्रह्मलोकं शास्त्रोक्तविशेषणं गच्छन्ति यस्मिन्नरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि यस्मिन्नैरं मदीयं सरः यस्मिन्नश्वत्थः सोमसवनः यस्मिन्नपराजिता पूर्ब्रह्मणः यस्मिंश्च प्रभुविमितं हिरण्मयं वेश्म यश्चानेकधा मन्त्रार्थवादादिप्रदेशेषु प्रपञ्च्यते ते तं प्राप्य न चन्द्रलोकादिव भुक्तभोगा आवर्तन्ते कुतः तयोर्ध्वमायन्नमृतत्वमेति तेषां न पुनरावृत्तिः एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते ब्रह्मलोकमभिसंपद्यन्ते न च पुनरावर्तते इत्यादिशब्देभ्यः। अन्तवत्त्वेऽपि तु ऐश्वर्यस्य यथा अनावृत्तिः तथा वर्णितम् कार्यात्यये तदध्यक्षेण सहातः परम् इत्यत्र सम्यग्दर्शनविध्वस्ततमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैव अनावृत्तिः तदाश्रयणेनैव हि सगुणशरणानामप्यनावृत्तिसिद्धिरिति। अनावृत्तिः शब्दादनावृत्तिः शब्दात् इति सूत्राभ्यासः शास्त्रपरिसमाप्तिं द्योतयति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यास्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य चतुर्थः पादः।।
।।इति श्रीमच्छारीरकमीमांसासूत्रभाष्यं संपूर्णम्।।