ब्रह्मसूत्र

Introduction for Chapter 4, Quarter 3


।।ब्रह्मसूत्रभाष्यम्।।

।।चतुर्थोऽध्यायः।।
।।तृतीयः पादः।।

आ सृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम् सृतिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयते नाडीरश्मिसंबन्धेनैका अथैतैरेव रश्मिभिरूर्ध्व आक्रमते इति अर्चिरादिकैका तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहः इति स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति इत्यन्या यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति इत्यपरा सूर्यद्वारेण ते विरजाः प्रयान्ति इति च अपरा। तत्र संशयः किं परस्परं भिन्ना एताः सृतयः किं वा एकैव अनेकविशेषणेति। तत्र प्राप्तं तावत् भिन्ना एताः सृतय इति भिन्नप्रकरणत्वात् भिन्नोपासनशेषत्वाच्च अपि च अथैतैरेव रश्मिभिः इत्यवधारणम् अर्चिराद्यपेक्षायाम् उपरुध्येत त्वरावचनं च पीड्येत स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति इति तस्मादन्योन्यभिन्ना एवैते पन्थान इति। एवं प्राप्ते अभिदध्महे