ब्रह्मसूत्र

चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः।।4.4.6।।

।।4.4.6।।

यद्यपि अपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते तथापि शब्दविकल्पजा एव एते पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते चैतन्यमेव तु अस्य आत्मनः स्वरूपमिति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिर्युक्ता तथा च श्रुतिः एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव इत्येवंजातीयका अनुगृहीता भविष्यति सत्यकामत्वादयस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते सत्याः कामा अस्येति तथापि उपाधिसंबन्धाधीनत्वात्तेषां न चैतन्यवत् स्वरूपत्वसंभवः अनेकाकारत्वप्रतिषेधात् प्रतिषिद्धं हि ब्रह्मणोऽनेकाकारत्वम् न स्थानतोऽपि परस्योभयलिङ्गम् इत्यत्र। अत एव च जक्षणादिसंकीर्तनमपि दुःखाभावमात्राभिप्रायं स्तुत्यर्थम् आत्मरतिः इत्यादिवत्। न हि मुख्यान्येव रतिक्रीडामिथुनानि आत्मनिमित्तानि शक्यन्ते वर्णयितुम् द्वितीयविषयत्वात्तेषाम्। तस्मान्निरस्ताशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इत्यौडुलोमिराचार्यो मन्यते।।