योगसूत्र

सूत्र

ता एव सबीजः समाधिः।।1.46।।

भाष्य

।।1.46।। ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः। तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः। सूक्ष्मेऽर्ये सविचारो निर्विचार इति चतुर्धोपसंख्यातः समाधिरिति।

भोजवृत्ति

।।1.46।। ता एवोक्तलक्षणाः समापत्तयः सह बीजेनाऽऽलम्बनेन वर्तत इति सबीजः संप्रज्ञातः समाधिरित्युच्यते सर्वासां सालम्बनत्वात्।

अथेतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह