योगसूत्र

सूत्र

निर्विचारवैशारद्येऽध्यात्मप्रसादः।।1.47।।

भाष्य

।।1.47।। अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्। यदा निविचारस्य समाधेर्वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः। तथा चोक्तम्

प्रज्ञाप्रसादमारुह्य अशोच्यः शोचतो जनान्।
भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति।।47।।

भोजवृत्ति

।।1.47।। निर्विचारत्वं व्याख्यातम्। वैशारद्यं नैर्मल्यम्। सवितर्कां स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम्। ततोऽपि सूक्ष्मविषयायाः सविचारायाः ततोऽपि निर्विकल्परूपाया निर्विचारायाः तस्यास्तु निर्विचारायाः प्रकृष्टाभ्यासवशाद्वैशारद्ये नैर्मल्ये सत्यध्यात्मप्रसादः समुपजायते। चित्तं क्लेशवासनारहितं स्थितिप्रवाह योग्यं भवति। एतदेव चित्तस्य वैशारद्यं यत्स्थितौ दार्ढ्यम्।

तस्मिन्सति किं भवतीत्याह