योगसूत्र

सूत्र

ऋतंभरा तत्र प्रज्ञा।।1.48।।

भाष्य

।।1.48।। तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतुंभरेति संज्ञा भवति। अन्वर्था च सा सत्यमेव बिभर्ति न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति। तथा चोक्तम्

आगमेनानुमानेन ध्यानाभ्यासरसेन च।
त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम्।।इति।।48।।

सा पुनः

भोजवृत्ति

।।1.48।। ऋतं सत्यं बिभर्ति कदाचिदपि न विपर्ययेणाऽऽच्छाद्यते सा ऋतंभरा प्रज्ञा तस्मिन्सति भवतीत्यर्थः। तस्माच्च प्रज्ञालोकात्सर्वं यघावत्पश्यन्योगी प्रकृष्टं योगं प्राप्नोति।

अस्याः प्रज्ञान्तराद्वैलक्षण्यमाह