योगसूत्र

सूत्र

तत्र प्रत्ययैकतानता ध्यानम्।।3.2।।

भाष्य

।।3.2।। तस्मिन्देशे ध्येयालम्बनस्य प्रत्ययस्यैकतानता सदृशः प्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम्।

भोजवृत्ति

।।3.2।। तत्र तस्मिन्प्रदेशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य यैकतानता विसदृशपरिणामपरिहारद्वारेण यदेव धारणायामालम्बनीकृतं तदालम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते।

चरमं योगाङ्गं समाधिमाह