योगसूत्र

सूत्र

तस्य प्रशान्तवाहिता संस्कारात्।।3.10।।

भाष्य

।।3.10।। निरोधसंस्काराभ्यासपाटवापेक्षा प्रशान्तवाहिता चित्तस्य भवति। तत्संस्कारमान्द्ये व्युत्थानधर्मिणा संस्कारेण निरोधधर्मसंस्कारोऽभिभूयत इति।

भोजवृत्ति

।।3.10।। तस्य चेतसो निरुक्तान्निरोधसंस्कारात्प्रशान्तवाहिता भवति। परिहृतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवतीत्यर्थः।

निरोधपरिणाममभिधाय समाधिपरिणाममाह