योगसूत्र

सूत्र

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः।।3.9।।

भाष्य

।।3.9।। व्युत्थानसंस्काराश्चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास्तयोरभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते निरोधक्षणं चित्तमन्वेति
तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः। तदा संस्कारशेषं चित्तमिति निरोधसमाधौ व्याख्यातम्।

भोजवृत्ति

।।3.9।। व्युत्थानं क्षिप्तमूढविक्षिप्ताख्यं भूमित्रयम्। निरोधः प्रकृष्टसत्त्वस्याङ्गितया चेतसः परिणामः। ताभ्यां व्युत्थाननिरोधाभ्यां यौ जनितौ संस्कारौ तयोर्यथाक्रममभिभवप्रादुर्भावौ यदा भवतः। अभिभवो न्यग्भूततया कार्यकरणासामर्थ्येनावस्थानम्। प्रादुर्भावो वर्तमानेऽध्वनि अभिव्यक्तरूपतयाऽऽविर्भावः। तदा निरोधक्षणे चित्तस्योभयवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते। अयमर्थः यदा व्युत्थानसंस्काररूपो धर्मस्तिरोभूतो भवति निरोधसंस्काररूपश्चाऽऽविर्भवति धर्मिरूपतया च चित्तमुभेयान्वयित्वेऽपि निरोधात्मनाऽवस्थितं प्रतीयते तदा स निरोधपरिणामशब्देन व्यवह्रियते। चलत्वाद्गुणवृत्तस्य यद्यपि चेतसो निश्चलत्वं नास्ति तथाऽपि एवंभूतः परिणामः स्थैर्यमुच्यते।

तस्यैव फलमाह