योगसूत्र

सूत्र

तज्जयात्प्रज्ञालोकः।।3.5।।

भाष्य

।।3.5।। तस्य संयमस्य जयात्समाधिप्रज्ञाया भवत्यालोको यथा यथा संयमः स्थिरपदो भवति तथा तथेश्वरप्रसादात्समाधिप्रज्ञा विशारदी भवति।

भोजवृत्ति

।।3.5।। तस्य संयमस्य जयादभ्यासेन सात्म्योपादनात्प्रज्ञाया विवेकख्यातेरालोकः प्रसवो भवति। प्रज्ञा ज्ञेयं सम्यगवभासयतीत्यर्थः।

तस्योपयोगमाह