योगसूत्र

सूत्र

त्रयमेकत्र संयमः।।3.4।।

भाष्य

।।3.4।। तदेतद्धारणाध्यानसमाधित्रयमेकत्र संयमः। एकविषयाणि त्रीणि साधनानि संयमः इत्युच्यते। तदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति।

भोजवृत्ति

।।3.4।। एकस्मिन्विषये धारणाध्यानसमाधित्रयं प्रवर्तमानं संयमसंज्ञया शास्त्रे व्यवह्रियते।

तस्य फलमाह