योगसूत्र

सूत्र

तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम्।।4.31।।

भाष्य

।।4.31।। सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति। तमसाभिभूतमावृतम् ज्ञानसत्त्वम् क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थं भवति। यत्र यदा सर्वैरावरणमलैरपगतमलं भवति तदा भवत्यस्याऽऽनन्त्यम्। ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं संपद्यते। यथाऽऽकाशे खद्योतः। यत्रेदमुक्तम्

अन्धो मणिमविध्यत्तमनङ्गुलिरावयत्।
अग्रीवस्तं प्रत्यमुञ्चत्तमजिह्वोभ्यपूजयत्।।इति।।31।।

भोजवृत्ति

।।4.31।। आव्रियते चित्तमेभिरित्यावरणानि क्लेशास्त एव मलास्तेभ्योऽपेतस्य तद्विरहितस्य ज्ञानस्य शरद्गगननिभस्याऽऽनन्त्यादनवच्छेदात् ज्ञेयमल्पं गणनास्पदं न भवत्यक्लेशेनैव सर्वं ज्ञेयं जानातीत्यर्थः।

ततः किमित्यत आह