ब्रह्मसूत्र

मान्त्रवर्णिकमेव च गीयते।।1.1.15।।

।।1.1.15।।

इतश्चानन्दमयः पर एवात्मा यस्मात् ब्रह्मविदाप्नोति परम् इत्युपक्रम्य सत्यं ज्ञानमनन्तं ब्रह्म इत्यस्मिन्मन्त्रे यत् ब्रह्म प्रकृतं सत्यज्ञानानन्तविशेषणैर्निर्धारितम् यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम् यस्य विज्ञानाय अन्योऽन्तर आत्मा अन्योऽन्तर आत्मा इति प्रक्रान्तम् तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते अन्योऽन्तर आत्मानन्दमयः इति। मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् अविरोधात्। अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम्। न चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माभिधीयते। एतन्निष्ठैव च भार्गवी वारुणी विद्या आनन्दो ब्रह्मेति व्यजानात् इति। तस्मादानन्दमयः पर एवात्मा।।