ब्रह्मसूत्र

तद्धेतुव्यपदेशाच्च।।1.1.14।।

।।1.1.14।।

इतश्च प्राचुर्यार्थे मयट् यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः एष ह्येवानन्दयाति इति आनन्दयतीत्यर्थः। यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति यथा लोके योऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते तद्वत्। तस्मात्प्राचुर्यार्थेऽपि मयटः संभवादानन्दमयः पर एवात्मा।।