ब्रह्मसूत्र

छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्तथा हि दर्शनम्।।1.1.25।।

।।0 01.1.25।।

अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्माभिहितमस्ति गायत्री वा इद्र्वं भूतं यदिदं किंच इति गायत्र्याख्यस्य च्छन्दसोऽभिहितत्वादिति तत्परिहर्तव्यम्। कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुम् यावता तावानस्य महिमा इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम्। नैतदस्ति। गायत्री वा इद्र्वम् इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीरहृदयवाक्प्राणप्रभेदैर्व्याख्याय सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तं तावानस्य महिमा इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात्। योऽपि तत्र यद्वै तद्ब्रह्म इति ब्रह्मशब्दः सोऽपि च्छन्दसः प्रकृतत्वाच्छन्दोविषय एव। य एतामेवं ब्रह्मोपनिषदं वेद इत्यत्र हि वेदोपनिषदमिति व्याचक्षते। तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमिति चेत् नैष दोषः। तथा चेतोर्पणनिगदात् तथा गायत्र्याख्यच्छन्दोद्वारेण तदनुगते ब्रह्मणि चेतसोऽर्पणं चित्तसमाधानम् अनेन ब्राह्मणवाक्येन निगद्यते गायत्री वा इद्र्वम् इति। न ह्यक्षरसंनिवेशमात्राया गायत्र्याः सर्वात्मकत्वं संभवति। तस्माद्यद्गायत्र्याख्यविकारेऽनुगतं जगत्कारणं ब्रह्म निर्दिष्टम् तदिह सर्वमित्युच्यते यथा सर्वं खल्विदं ब्रह्म इति। कार्यं च कारणादव्यतिरिक्तमिति वक्ष्यामः तदनन्यत्वमारम्भणशब्दादिभ्यः इत्यत्र। तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते च्छन्दोगाः इति। तस्मादस्ति च्छन्दोभिधानेऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्। तदेव ज्योतिर्वाक्येऽपि परामृश्यत उपासनान्तरविधानाय। अपर आह। साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते संख्यासामान्यात्। यथा गायत्री चतुष्पदा षडक्षरैः पादैः तथा ब्रह्म चतुष्पात्। तथान्यत्रापि च्छन्दोभिधायी शब्दोऽर्थान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते। तद्यथा ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम् इत्युपक्रम्याह सैषा विराडन्नादी इति। अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न च्छन्दोभिधानम्। सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म इति।।