ब्रह्मसूत्र

भूतादिपादव्यपदेशोपपत्तेश्चैवम्।।1.1.26।।

।।1.1.26।।

इतश्चैवमभ्युपगन्तव्यमस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति यतो भूतादीन्पादान्व्यपदिशति श्रुतिः। भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह सैषा चतुष्पदा षड्विधा गायत्री इति। न हि ब्रह्मानाश्रयणे
केवलस्य च्छन्दसो भूतादयः पादा उपपद्यन्ते। अपि च ब्रह्मानाश्रयणे नेयमृक् संबध्येत तावानस्य महिमा इति। अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इति सर्वात्मत्वोपपत्तेः। पुरुषसूक्तेऽपीयमृक् ब्रह्मपरतयैव समाम्नायते। स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति। यद्वै तद्ब्रह्म इति च निर्देशः। एवं सति मुख्यार्थ उपपद्यते। ते वा एते पञ्च ब्रह्मपुरुषाः इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति। तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम्। तदेव ब्रह्म ज्योतिर्वाक्ये द्युसंबन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम्।।