ब्रह्मसूत्र

जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात्।।1.1.31।।

।।1.1.31।।

यद्यप्यध्यात्मसंबन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः तथापि न ब्रह्मवाक्यं भवितुमर्हति। कुतः जीवलिङ्गात् मुख्यप्राणलिङ्गाच्च। जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते न वाचं
विजिज्ञासीत वक्तारं विद्यात् इत्यादि। अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते। तथा मुख्यप्राणलिङ्गमपि अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति इति। शरीरधारणं च मुख्यप्राणस्य धर्मः प्राणसंवादे वागादीन्प्राणान्प्रकृत्य तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि इति श्रवणात्। ये तु इमं शरीरं परिगृह्य इति पठन्ति तेषाम् इमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम्। प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम्। मुख्येऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव। एवं जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः स्वरूपेण च भेदर्निदेशः इत्युभयथापि निर्देश उपपद्यते यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः इति। ब्रह्मपरिग्रहे तु किं कस्माद्भिद्येत तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत् नैतदेवम् उपासात्रैविध्यात्। एवं सति त्रिविधमुपासनं प्रसज्येत जीवोपासनं मुख्यप्राणोपासनं ब्रह्मोपासनं चेति। न चैतदेकस्मिन्वाक्येऽभ्युपगन्तुं युक्तम्। उपक्रमोपसंहाराभ्यां हि वाक्यैकवाक्यत्वमवगम्यते। मामेव विजानीहि इत्युपक्रम्य प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इत्युक्त्वा अन्ते स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः इत्येकरूपावुपक्रमोपसंहारौ दृश्येते। तत्रार्थैकत्वं युक्तमाश्रयितुम्। न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम् दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणोऽन्यत्र अर्पणानुपपत्तेः। आश्रितत्वाच्च अन्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि प्रवृत्तेः इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगात् ब्रह्मोपदेश एवायमिति गम्यते। यत्तु मुख्यप्राणलिङ्गं दर्शितम् इदं शरीरं परिगृह्योत्थापयति इति तदसत् प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ इति श्रुतेः। यदपि न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गं दर्शितम् तदपि न ब्रह्मपक्षं निवारयति। न हि जीवो नामात्यन्तभिन्नो ब्रह्मणः तत्त्वमसि अहं ब्रह्मास्मि इत्यादिश्रुतिभ्यः। बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सन् जीवः कर्ता भोक्ता चेत्युच्यते। तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुम् न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादिना प्रत्यगात्माभिमुखीकरणार्थ उपदेशो न विरुध्यते। यद्वाचानभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति। यत्पुनरेतदुक्तम् सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतः इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादिनो नोपपद्यत इति नैष दोषः ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोर्भेदनिर्देशोपपत्तेः। उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मा इत्येकीकरणमविरुद्धम्।।

अथवा नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् इत्यस्यायमन्योऽर्थः न ब्रह्मवाक्येऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते कथम् उपासात्रैविध्यात्। त्रिविधमिह ब्रह्मण उपासनं विवक्षितम् प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च। तत्र आयुरमृतमित्युपास्स्वायुः प्राणः इति इदं शरीरं परिगृह्योत्थापयति इति तस्मादेतदेवोक्थमुपासीत इति च प्राणधर्मः। अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामः इत्युपक्रम्य वागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति इत्यादिः प्रज्ञाधर्मः। ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम्। यदि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः। यदि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः। न ह्यन्यतरतो रूपं किंचन सिध्येत्। नो एतन्नाना। तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मा इत्यादिर्ब्रह्मधर्मः। तस्माद्ब्रह्मण एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम्। अन्यत्रापि मनोमयः प्राणशरीरः इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात् प्राणप्रज्ञात्मब्रह्मलिङ्गावगमाच्च। तस्माद्ब्रह्मवाक्यमेवैतदिति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये प्रथमाध्यायस्य प्रथमः पादः।।