ब्रह्मसूत्र

शास्त्रदृष्ट्या तूपदेशो वामदेववत्।।1.1.30।।

।।1.1.30।।

इन्द्रो नाम देवतात्मा स्वमात्मानं परमात्मत्वेन अहमेव परं ब्रह्म इत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन् उपदिशति स्म मामेव विजानीहि इति यथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च इति तद्वत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् इति श्रुतेः। यत्पुनरुक्तम् मामेव विजानीहि इत्युक्त्वा विग्रहचर्मैरिन्द्रः स्वमात्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति तत्परिहर्तव्यम् अत्रोच्यते न तावत् त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासः यस्मादेवंकर्माहम् तस्मान्मां विजानीहि इति कथं तर्हि विज्ञानस्तुत्यर्थत्वेन यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसंदधाति
तस्य मे तत्र लोम च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोके मीयते इत्यादिना। एतदुक्तं भवति यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते स योऽन्योऽपि मां वेद न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति। विज्ञेयं तु ब्रह्मैव प्राणोऽस्मि प्रज्ञात्मा इति वक्ष्यमाणम्। तस्माद्ब्रह्मवाक्यमेतत्।।