ब्रह्मसूत्र

गौणश्चेन्नात्मशब्दात्।।1.1.6।।

।।1.1.6।।

यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिकमीक्षितृत्वम् अप्तेजसोरिवेति तदसत्। कस्मात् आत्मशब्दात् सदेव सोम्येदमग्र आसीत् इत्युपक्रम्य तदैक्षत तत्तेजोऽसृजत इति च तेजोबन्नानां सृष्टिमुक्त्वा तदेव प्रकृतं सदीक्षितृ तानि च तेजोबन्नानि देवताशब्देन परामृश्याह सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति। तत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत तदेव प्रकृतत्वात् सेयं देवता इति परामृश्येत न तदा देवता जीवमात्मशब्देनाभिदध्यात्। जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता तत्प्रसिद्धेर्निर्वचनाच्च। स
कथमचेतनस्य प्रधानस्यात्मा भवेत्। आत्मा हि नाम स्वरूपम्। नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति। अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्येत तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते। तथा स य एषोऽणिमैतदात्म्यमिद्र्वं तत्सत्य् आत्मा तत्त्वमसि श्वेतकेतो इत्यत्र स आत्मा इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य तत्त्वमसि श्वेतकेतो इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति। अप्तेजसोस्तु विषयत्वादचेतनत्वम् नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात् न चात्मशब्दवत्किंचिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य। तयोरपि सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम्। सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम्।।

अथोच्येत अचेतनेऽपि प्रधाने भवत्यात्मशब्दः आत्मनः सर्वार्थकारित्वात् यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दः ममात्मा भद्रसेनः इति। प्रधानं हि पुरुषस्यात्मनो भोगापवर्गौ कुर्वदुपकरोति राज्ञ इव भृत्यः संधिविग्रहादिषु वर्तमानः। अथवैक एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति भूतात्मा इन्द्रियात्मा इति च प्रयोगदर्शनात् यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः। तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति