ब्रह्मसूत्र

अनुपपत्तेस्तु न शारीरः।।1.2.3।।

।।1.2.3।।

पूर्वेण सूत्रेण ब्रह्मणि विवक्षितानां गुणानामुपपत्तिरुक्ता। अनेन शारीरे तेषामनुपपत्तिरुच्यते। तुशब्दोऽवधारणार्थः। ब्रह्मैवोक्तेन न्यायेन मनोमयत्वादिगुणम् न तु शारीरो जीवो मनोमयत्वादिगुणः यत्कारणम् सत्यसंकल्पः आकाशात्मा अवाकी अनादरः ज्यायान्पृथिव्याः इति चैवंजातीयका गुणा न शारीरे आञ्जस्येनोपपद्यन्ते। शारीर इति शरीरे भव इत्यर्थः। नन्वीश्वरोऽपि शरीरे भवति सत्यम् शरीरे भवति न तु शरीर एव भवति ज्यायान्पृथिव्या ज्यायानन्तरिक्षात् आकाशवत्सर्वगतश्च नित्यः इति च व्यापित्वश्रवणात्। जीवस्तु शरीर एव भवति तस्य भोगाधिष्ठानाच्छरीरादन्यत्र वृत्त्यभावात्।।