ब्रह्मसूत्र

वदतीति चेन्न प्राज्ञो हि प्रकरणात्।।1.4.5।।

।।1.4.5।।

अत्राह सांख्यः ज्ञेयत्वावचनात् इत्यसिद्धम् कथम् श्रूयते ह्युत्तरत्राव्यक्तशब्दोदितस्य प्रधानस्य ज्ञेयत्ववचनम् अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते इति अत्र हि यादृशं शब्दादिहीनं प्रधानं महतः परं स्मृतौ निरूपितम् तादृशमेव निचाय्यत्वेन निर्दिष्टम् तस्मात्प्रधानमेवेदम् तदेव चाव्यक्तशब्दनिर्दिष्टमिति। अत्र ब्रूमः नेह प्रधानं निचाय्यत्वेन निर्दिष्टम् प्राज्ञो हीह परमात्मा निचाय्यत्वेन निर्दिष्ट इति गम्यते कुतः प्रकरणात् प्राज्ञस्य हि प्रकरणं विततं वर्तते पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः इत्यादिनिर्देशात् एष सर्वेषु भूतेषु गुढोऽत्मा न प्रकाशते इति च दुर्ज्ञानत्ववचनेन तस्यैव ज्ञेयत्वाकाङ्क्षणात् यच्छेद्वाङ्मनसी प्राज्ञः इति च तज्ज्ञानायैव वागादिसंयमस्य विहितत्वात् मृत्युमुखप्रमोक्षणफलत्वाच्च न हि प्रधानमात्रं निचाय्य मृत्युमुखात्प्रमुच्यत इति सांख्यैरिष्यते चेतनात्मविज्ञानाद्धि मृत्युमुखात्प्रमुच्यत इति तेषामभ्युपगमः सर्वेषु वेदान्तेषु प्राज्ञस्यैवात्मनोऽशब्दादिधर्मत्वमभिलप्यते तस्मान्न प्रधानस्यात्र ज्ञेयत्वमव्यक्तशब्दनिर्दिष्टत्वं वा।।