ब्रह्मसूत्र

त्रयाणामेव चैवमुपन्यासः प्रश्नश्च।।1.4.6।।

।।1.4.6।।

इतश्च न प्रधानस्याव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा यस्मात्त्रयाणामेव पदार्थानामग्निजीवपरमात्मनामस्मिन्ग्रन्थे कठवल्लीषु वरप्रदानसामर्थ्याद्वक्तव्यतयोपन्यासो दृश्यते तद्विषय एव च प्रश्नः नातोऽन्यस्य प्रश्न उपन्यासो वास्ति तत्र तावत् स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् इत्यग्निविषयः प्रश्नः येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः इति जीवविषयः प्रश्नः अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद इति परमात्मविषयः प्रतिवचनमपि लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा इत्यग्निविषयम् हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्। यथा च मरणं प्राप्य आत्मा भवति गौतम। योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः। स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् इति व्यवहितं जीवविषयम्
न जायते म्रियते वा विपश्चित् इत्यादिबहुप्रपञ्चं परमात्मविषयम्। नैवं प्रधानविषयः प्रश्नोऽस्ति। अपृष्टत्वाच्चानुपन्यसनीयत्वं तस्येति।।

अत्राह योऽयमात्मविषयः प्रश्नः येयं प्रेते विचिकित्सा मनुष्येऽस्ति इति किं स एवायम् अन्यत्र धर्मादन्यत्राधर्मात् इति पुनरनुकृष्यते किं वा ततोऽन्योऽयमपूर्वः प्रश्न उत्थाप्यत इति। किं चातः स एवायं प्रश्नः पुनरनुकृष्यत इति यद्युच्येत तदा द्वयोरात्मविषययोः प्रश्नयोरेकतापत्तेरग्निविषय आत्मविषयश्च द्वावेव प्रश्नावित्यतो न वक्तव्यं त्रयाणां प्रश्नोपन्यासाविति अथान्योऽयमपूर्वः प्रश्न उत्थाप्यत इत्युच्येत ततो यथैव वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोषः एवं प्रश्नव्यतिरेकेणापि प्रधानोपन्यासकल्पनायामदोषः स्यादिति।।

अत्रोच्यते नैवं वयमिह वरप्रदानव्यतिरेकेण प्रश्नं कंचित्कल्पयामः वाक्योपक्रमसामर्थ्यात् वरप्रदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिः आ समाप्तेः कठवल्लीनां लक्ष्यते मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन्वरान्प्रददौ नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनस्यं वव्रे द्वितीयेनाग्निविद्याम् तृतीयेनात्मविद्याम् येयं प्रेते इति वराणामेष वरस्तृतीयः इति लिङ्गात्। तत्र यदि अन्यत्र धर्मात् इत्यन्योऽयमपूर्वः प्रश्न उत्थाप्येत ततो वरप्रदानव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्येत। ननु प्रष्टव्यभेदादपूर्वोऽयं प्रश्नो भवितुमर्हति अपूर्वो हि प्रश्नो जीवविषयः येयं प्रेते विचिकित्सा मनुष्येऽस्ति नास्तीति विचिकित्साभिधानात् जीवश्च धर्मादिगोचरत्वात् न अन्यत्र धर्मात् इति प्रश्नमर्हति प्राज्ञस्तु धर्माद्यतीतत्वात् अन्यत्र धर्मात् इति प्रश्नमर्हति प्रश्नच्छाया च न समाना लक्ष्यते पूर्वस्यास्तित्वनास्तित्वविषयत्वात् उत्तरस्य धर्माद्यतीतवस्तुविषयत्वाच्च तस्मात्प्रत्यभिज्ञानाभावात्प्रश्नभेदः न पूर्वस्यैवोत्तरत्रानुकर्षणमिति चेत् न जीवप्राज्ञयोरेकत्वाभ्युपगमात् भवेत्प्रष्टव्यभेदात्प्रश्नभेदो यद्यन्यो जीवः प्राज्ञात्स्यात् न त्वन्यत्वमस्ति तत्त्वमसि इत्यादिश्रुत्यन्तरेभ्यः इह च अन्यत्र धर्मात् इत्यस्य प्रश्नस्य प्रतिवचनम् न जायते म्रियते वा विपश्चित् इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानं शारीरपरमेश्वरयोरभेदं दर्शयति सति हि प्रसङ्गे प्रतिषेधो भागी भवति प्रसङ्गश्च जन्ममरणयोः शरीरसंस्पर्शाच्छारीरस्य भवति न परमेश्वरस्य तथा स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति इति स्वप्नजागरितदृशो जीवस्यैव महत्त्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयन्न प्राज्ञादन्यो जीव इति दर्शयति प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः तथाग्रे यदेवेह तदमुत्र यदमुत्र तदन्विह। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इति जीवप्राज्ञभेददृष्टिमपवदति तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्यानन्तरम् अन्यं वरं नचिकेतो वृणीष्व इत्यारभ्य मृत्युना तैस्तैः कामैः प्रलोभ्यमानोऽपि नचिकेता यदा न चचाल तदैनं मृत्युरभ्युदयनिःश्रेयसविभागप्रदर्शनेन विद्याविद्याविभागप्रदर्शनेन च विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त इति प्रशस्य प्रश्नमपि तदीयं प्रशंसन्यदुवाच तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति इति तेनापि जीवप्राज्ञयोरभेद एवेह विवक्षित इति गम्यते यत्प्रश्ननिमित्तां च प्रशंसां महतीं मृत्योः प्रत्यपद्यत नचिकेताः यदि तं विहाय प्रशंसानन्तरमन्यमेव प्रश्नमुपक्षिपेत् अस्थान एव सा सर्वा प्रशंसा प्रसारिता स्यात् तस्मात् येयं प्रेते इत्यस्यैव प्रश्नस्यैतदनुकर्षणम् अन्यत्र धर्मात् इति। यत्तु प्रश्नच्छायावैलक्षण्यमुक्तम् तददूषणम् तदीयस्यैव विशेषस्य पुनः पृच्छ्यमानत्वात् पूर्वत्र हि देहादिव्यतिरिक्तस्यात्मनोऽस्तित्वं पृष्टम् उत्तरत्र तु तस्यैवासंसारित्वं पृच्छयत इति यावद्ध्यविद्या न निवर्तते तावद्धर्मादिगोचरत्वं जीवस्य जीवत्वं च न निवर्तते तन्निवृत्तौ तु प्राज्ञ एव तत्त्वमसि इति श्रुत्या प्रत्याय्यते न चाविद्यावत्त्वे तदपगमे च वस्तुनः कश्चिद्विशेषोऽस्ति यथा कश्चित्संतमसे पतितां कांचिद्रज्जुमहिं मन्यमानो भीतो वेपमानः पलायते तं चापरो ब्रूयात् मा भैषीः नायमहिः रज्जुरेवेति स च तदुपश्रुत्याहिकृतं भयमुत्सृजेद्वेपथुं पलायनं च न त्वहिबुद्धिकाले तदपगमकाले च वस्तुनः कश्चिद्विशेषः स्यात् तथैवैतदपि द्रष्टव्यम् ततश्च न जायते म्रियते वा इत्येवमाद्यपि भवत्यस्तित्वनास्तित्वप्रश्नस्य प्रतिवचनम्। सूत्रं त्वविद्याकल्पितजीवप्राज्ञभेदापेक्षया योजयितव्यम् एकत्वेऽपि ह्यात्मविषयस्य प्रश्नस्य प्रायणावस्थायां देहव्यतिरिक्तास्तित्वमात्रविचिकित्सनात्कर्तृत्वादिसंसारस्वभावानपोहनाच्च पूर्वस्य पर्यायस्य जीवविषयत्वमुत्प्रेक्ष्यते उत्तरस्य तु धर्माद्यत्ययसंकीर्तनात्प्राज्ञविषयत्वमिति। ततश्च युक्ता
अग्निजीवपरमात्मकल्पना प्रधानकल्पनायां तु न वरप्रदानं न प्रश्नो न प्रतिवचनमिति वैषम्यम्।।