ब्रह्मसूत्र

।। द्वितीयोऽध्यायः ।।
।। चतुर्थः पादः ।।

तथा प्राणाः ।। 2.4.1 ।।

प्राणोत्पत्त्यधिकरणम्।।2.4.1।।

तथा प्राणा इति। कथं पुनरत्र तथा इत्यक्षरानुलोम्यम् प्रकृतोपमानाभावात् सर्वगतात्मबहुत्ववादिदूषणम् अतीतानन्तरपादान्ते प्रकृतम् तत्तावन्नोपमानं संभवति सादृश्याभावात् सादृश्ये हि सति उपमानं स्यात् यथा सिंहस्तथा बलवर्मेति अदृष्टसाम्यप्रतिपादनार्थमिति यद्युच्येत यथा अदृष्टस्य सर्वात्मसंनिधावुत्पद्यमानस्यानियतत्वम् एवं प्राणानामपि सर्वात्मनः प्रत्यनियतत्वमिति तदपि देहानियमेनैवोक्तत्वात्पुनरुक्तं भवेत् न च जीवेन प्राणा उपमीयेरन् सिद्धान्तविरोधात् जीवस्य हि अनुत्पत्तिराख्याता प्राणानां तु उत्पत्तिराचिख्यासिता तस्मात्तथा इत्यसंबद्धमिव प्रतिभाति न उदाहरणोपात्तेनाप्युपमानेन संबन्धोपपत्तेः अत्र प्राणोत्पत्तिवादिवाक्यजातमुदाहरणम् एतस्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति इत्येवंजातीयकम् तत्र यथा लोकादयः परस्माद्ब्रह्मण उत्पद्यन्ते तथा प्राणा अपीत्यर्थः तथा एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च। खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी इत्येवमादिष्वपि खादिवत्प्राणानामुत्पत्तिरिति द्रष्टव्यम्। अथवा पानव्यापच्च तद्वत् इत्येवमादिषु व्यवहितोपमानसंबन्धस्याप्याश्रितत्वात् यथा अतीतानन्तरपादादावुक्ता वियदादयः परस्य ब्रह्मणो विकाराः समधिगताः तथा प्राणा अपि परस्य ब्रह्मणो विकारा इति योजयितव्यम्। कः पुनः प्राणानां विकारत्वे हेतुः श्रुतत्वमेव ननु केषुचित्प्रदेशेषु न प्राणानामुत्पत्तिः श्रूयत इत्युक्तम् तदयुक्तम् प्रदेशान्तरेषु श्रवणात् न हि क्वचिदश्रवणमन्यत्र श्रुतं निवारयितुमुत्सहते तस्माच्छ्रुतत्वाविशेषादाकाशादिवत्प्राणा अप्युत्पद्यन्त इति सूक्तम्।।