ब्रह्मसूत्र

संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात्।।2.4.20।।

संज्ञामूर्तिक्लृप्त्यधिकरणम्।।2.4.20।।

सत्प्रक्रियायां तेजोबन्नानां सृष्टिमभिधायोपदिश्यते सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति। तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति तत्र संशयः किं जीवकर्तृकमिदं नामरूपव्याकरणम् आहोस्वित्परमेश्वरकर्तृकमिति। तत्र प्राप्तं तावत् जीवकर्तृकमेवेदं नामरूपव्याकरणमिति कुतः अनेन जीवेनात्मना इति विशेषणात् यथा लोके चारेणाहं परसैन्यमनुप्रविश्य संकलयानि इत्येवंजातीयके प्रयोगे चारकर्तृकमेव सत् सैन्यसंकलनं हेतुकर्तृत्वात् राजा आत्मन्यध्यारोपयति संकलयानीत्युत्तमपुरुषप्रयोगेण एवं जीवकर्तृकमेव सत् नामरूपव्याकरणं हेतुकर्तृत्वात् देवता आत्मन्यध्यारोपयति व्याकरवाणीत्युत्तमपुरुषप्रयोगेण। अपि च डित्थडवित्थादिषु नामसु घटशरावादिषु च रूपेषु जीवस्यैव व्याकर्तृत्वं दृष्टम्। तस्माज्जीवकर्तृकमेवेदं नामरूपव्याकरणमित्येवं प्राप्ते

अभिधत्ते संज्ञामूर्तिक्लृप्तिस्त्विति। तुशब्देन पक्षं व्यावर्तयति। संज्ञामूर्तिक्लृप्तिरिति नामरूपव्याक्रियेत्येतत् त्रिवृत्कुर्वत इति परमेश्वरं लक्षयति त्रिवृत्करणे तस्य निरपवादकर्तृत्वनिर्देशात् येयं संज्ञाक्लृप्तिः मूर्तिक्लृप्तिश्च अग्निः आदित्यः चन्द्रमाः विद्युदिति तथा कुशकाशपलाशादिषु पशुमृगमनुष्यादिषु च प्रत्याकृति प्रतिव्यक्ति च अनेकप्रकारा सा खलु परमेश्वरस्यैव तेजोबन्नानां निर्मातुः कृतिर्भवितुमर्हति कुतः उपदेशात् तथा हि सेयं देवता इत्युपक्रम्य व्याकरवाणि इत्युत्तमपुरुषप्रयोगेण परस्यैव ब्रह्मणो व्याकर्तृत्वमिहोपदिश्यते। ननु जीवेन इति विशेषणात् जीवकृर्तृकत्वं व्याकरणस्याध्यवसितम् नैतदेवम् जीवेन इत्येतत् अनुप्रविश्य इत्यनेन संबध्यते आनन्तर्यात् न व्याकरवाणि इत्यनेन तेन हि संबन्धे व्याकरवाणि इत्ययं देवताविषय उत्तमपुरुष औपचारिकः कल्प्येत न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेषु अनीश्वरस्य जीवस्य व्याकरणसामर्थ्यमस्ति येष्वपि च अस्ति सामर्थ्यम् तेष्वपि परमेश्वरायत्तमेव तत् न च जीवो नाम परमेश्वरादत्यन्तभिन्नः चार इव राज्ञः आत्मना इति विशेषणात् उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वरकृतमेव भवति परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः आकाशो ह वै नाम नामरूपयोर्निर्वहिता इत्यादिश्रुतिभ्यः तस्मात् परमेश्वरस्यैव त्रिवृत्कुर्वतः कर्म नामरूपव्याकरणम्। त्रिवृत्करणपूर्वकमेवेदम् इह नामरूपव्याकरणं विवक्ष्यते प्रत्येकं नामरूपव्याकरणस्य तेजोबन्नोत्पत्तिवचनेनैवोक्तत्वात् तच्च त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य इत्यादिना तत्राग्निरिति इदं रूपं व्याक्रियते सति च रूपव्याकरणे विषयप्रतिलम्भादग्निरिति इदं नाम व्याक्रियते
एवमेवादित्यचन्द्रविद्युत्स्वपि द्रष्टव्यम्। अनेन च अग्न्याद्युदाहरणेन भौमाम्भसतैजसेषु त्रिष्वपि द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति उपक्रमोपसंहारयोः साधारणत्वात् तथा हि अविशेषेणैव उपक्रमः इमास्तिस्रो देवतास्त्रिवृत्ित्रवृदेकैका भवति इति अविशेषेणैव च उपसंहारः यदु रोहितमिवाभूदिति तेजसस्तद्रूपम् इत्येवमादिः यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समासः इत्येवमन्तः।।

तासां तिसृणां देवतानाम् बहिस्त्रिवृत्कृतानां सतीनाम् अध्यात्ममपरं त्रिवृत्करणमुक्तम् इमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्ित्रवृदेकैका भवति इति तदिदानीम् आचार्यो यथाश्रुत्येवोपदर्शयति आशङ्कितं कंचिद्दोषं परिहरिष्यन्