ब्रह्मसूत्र

सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्।।3.4.47।।

सहकार्यन्तरविध्यधिकरणम्।।3.4.47।।

तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः इति बृहदारण्यके श्रूयते। तत्र संशयः मौनं विधीयते न वेति। न विधीयत इति तावत्प्राप्तम् बाल्येन तिष्ठासेत् इत्यत्रैव विधेरवसितत्वात् न हि अथ मुनिः इत्यत्र विधायिका विभक्तिरुपलभ्यते तस्मादयमनुवादो युक्तः कुतः प्राप्तिरिति चेत् मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात् पाण्डित्यं निर्विद्य इत्येवं प्राप्तं मौनम्। अपि च अमौनं च मौनं च निर्विद्याथ ब्राह्मणः इत्यत्र तावत् न ब्राह्मणत्वं विधीयते प्रागेव प्राप्तत्वात् तस्मात् अथ ब्राह्मणः इति प्रशंसावादः तथैव अथ मुनिः इत्यपि भवितुमर्हति समाननिर्देशत्वादित्येवं प्राप्ते

ब्रूमः सहकार्यन्तरविधिरिति। विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः अपूर्वत्वात्। ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् नैष दोषः मुनिशब्दस्य ज्ञानातिशयार्थत्वात् मननान्मुनिरिति च व्युत्पत्तिसंभवात् मुनीनामप्यहं व्यासः इति च प्रयोगदर्शनात्। ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम् इत्यत्र न वाल्मीकिर्मुनिपुंगवः इत्यादिषु व्यभिचारदर्शनात् इतराश्रमसंनिधानात्तु पारिशेष्यात् तत्र उत्तमाश्रमोपादानम् ज्ञानप्रधानत्वादुत्तमाश्रमस्य। तस्मात् बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते। यत्तु बाल्य एव विधिपर्यवसानमिति तथापि अपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयते मुनिः स्यादिति निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम्। तद्वतः विद्यावतः संन्यासिनः कथं च विद्यावतः संन्यासिन इत्यवगम्यते तदधिकारात् आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थाय अथ भिक्षाचर्यं चरन्ति इति। ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः किं मौनविधिना इत्यत आह पक्षेणेति। एतदुक्तं भवति यस्मिन्पक्षे भेददर्शनप्राबल्यात् न प्राप्नोति तस्मिन् एष विधिरिति। विध्यादिवत् यथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः।।

एवं बाल्यादिविशिष्टे कैवल्याश्रमे श्रुतिमति विद्यमाने कस्मात् छान्दोग्ये गृहिणा उपसंहारः अभिसमावृत्य कुटुम्बे इत्यत्र तेन हि उपसंहरन् तद्विषयमादरं दर्शयति इत्यत उत्तरं पठति