ब्रह्मसूत्र

कृत्स्नभावात्तु गृहिणोपसंहारः।।3.4.48।।

।।3.4.48।।

तुशब्दो विशेषणार्थः कृत्स्नभावोऽस्य विशेष्यते बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि आश्रमान्तरकर्माणि च यथासंभवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते। तस्मात् गृहमेधिना उपसंहारो न विरुध्यते।।