ब्रह्मसूत्र

Introduction for Chapter 3, Quarter 3


।।ब्रह्मसूत्रभाष्यम्।।

।।तृतीयोऽध्यायः।।
।।तृतीयः पादः।।

व्याख्यातं विज्ञेयस्य ब्रह्मणः तत्त्वम् इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यते। ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितम् एकरसं सैन्धवघनवत् अवधारितम् तत्र कुतो विज्ञानभेदाभेदचिन्तावसरः न हि कर्मबहुत्ववत् ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् ब्रह्मण एकत्वात् एकरूपत्वाच्च न च एकरूपे ब्रह्मणि अनेकरूपाणि विज्ञानानि संभवन्ति न हि अन्यथा अर्थः अन्यथा ज्ञानम् इत्यभ्रान्तं भवति यदि पुनः एकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तेषु प्रतिपिपादयिषितानि तेषाम् एकमभ्रान्तम् भ्रान्तानि इतराणीति अनाश्वासप्रसङ्गो वेदान्तेषु तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते। नाप्यस्य चोदनाद्यविशेषादभेद उच्येत ब्रह्मविज्ञानस्य अचोदनालक्षणत्वात् अविधिप्रधानैर्हि वस्तुपर्यवसायिभिः ब्रह्मवाक्यैः ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यःतत्तु समन्वयात् इत्यत्र। तत्कथमिमां भेदाभेदचिन्तामारभत इति।।

तदुच्यते सगुणब्रह्मविषया प्राणादिविषया च इयं विज्ञानभेदाभेदचिन्तेत्यदोषः। अत्र हि कर्मवत् उपासनानां भेदाभेदौ संभवतः कर्मवदेव च उपासनानि दृष्टफलानि अदृष्टफलानि च उच्यन्ते क्रममुक्तिफलानि च कानिचित् सम्यग्दर्शनोत्पत्तिद्वारेण। तेषु एषा चिन्ता संभवति किं प्रतिवेदान्तं विज्ञानभेदः आहोस्वित् नेति।।

तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते नाम्नस्तावत् भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु अस्ति च अत्र वेदान्तान्तरविहितेषु विज्ञानेषु अन्यदन्यत् नाम तैत्तिरीयकं वाजसनेयकं कौथुमकं कौषीतकं शाट्यायनकमित्येवमादि। तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धः वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इत्येवमादिषु अस्ति च अत्र रूपभेदः तद्यथा केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्ति अपरे पुनः पञ्चैव पठन्ति तथा प्राणसंवादादिषु केचित् ऊनान्वागादीनामनन्ति केचिदधिकान्। तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु अस्ति च अत्र धर्मविशेषः यथा आथर्वणिकानां शिरोव्रतमिति। एवं पुनरुक्त्यादयोऽपि भेदहेतवः यथासंभवं वेदान्तान्तरेषु योजयितव्याः। तस्मात् प्रतिवेदान्तं विज्ञानभेद इत्येवं प्राप्ते ब्रूमः