ब्रह्मसूत्र

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः।।3.4.52।।

मुक्तिफलाधिकरणम्।।3.4.52।।

यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् इत्याशङ्क्य आह मुक्तिफलानियम इति। न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः कुतः तदवस्थावधृतेः मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यते ब्रह्मैव हि मुक्त्यवस्था न च ब्रह्मणोऽनेकाकारयोगोऽस्ति एकलिङ्गत्वावधारणात् अस्थूलमनणु स एष नेति नेत्यात्मा यत्र नान्यत्पश्यति ब्रह्मैवेदममृतं पुरस्तात् इदं सर्वं यदयमात्मा स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिश्रुतिभ्यः। अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कंचिदतिशयमासञ्जयेत् न विद्याफले मुक्तौ तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म। न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते निकृष्टाया विद्यात्वाभावात् उत्कृष्टैव हि विद्या भवति तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत्। न तु मुक्तौ कश्चित् अतिशयसंभवोऽस्ति। विद्याभेदाभावादपि तत्फलभेदनियमाभावः कर्मफलवत् न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति। सगुणासु तु विद्यासु मनोमयः प्राणशरीरः इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् उपपद्यते यथास्वं फलभेदनियमः कर्मफलवत् तथा च लिङ्गदर्शनम् तं यथा यथोपासते तदेव भवति इति नैवं निर्गुणायां विद्यायाम् गुणाभावात् तथा च स्मृतिः न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम् इति। तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये तृतीयोऽध्यायः।।