ब्रह्मसूत्र

ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात्।।3.4.51।।

ऐहिकाधिकरणम्।।3.4.51।।

सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम् तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति उत कदाचित् अमुत्रापीति चिन्त्यते। किं तावत्प्राप्तम् इहैवेति किं कारणम् श्रवणादिपूर्विका हि विद्या न च कश्चित् अमुत्र मे विद्या जायतामित्यनुसंधाय श्रवणादिषु प्रवर्तते समान एव तु जन्मनि विद्याजन्म अभिसंधाय एतेषु प्रवर्तमानो दृश्यते। यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति प्रमाणजन्यत्वाद्विद्यायाः। तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते

वदामः ऐहिकं विद्याजन्म भवति असति प्रस्तुतप्रतिबन्ध इति। एतदुक्तं भवति यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियते उपस्थितविपाकेन कर्मान्तरेण तदा इहैव विद्या उत्पद्यते यदा तु खलु तत्प्रतिबन्धः क्रियते तदा अमुत्रेति। उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिपाताद्भवति यानि च एकस्य कर्मणो विपाचकानि देशकालनिमित्तानि तान्येव अन्यस्यापीति न नियन्तुं शक्यते यतो
विरुद्धफलान्यपि कर्माणि भवन्ति। शास्त्रमपि अस्य कर्मण इदं फलमित्येतावति पर्यवसितं न देशकालनिमित्तविशेषमपि संकीर्तयति। साधनवीर्यविशेषात्तु अतीन्द्रिया कस्यचिच्छक्तिराविर्भवति तत्प्रतिबद्धा परस्य तिष्ठति। न च अविशेषेण विद्यायाम् अभिसंधिर्नोत्पद्यते इह अमुत्र वा मे विद्या जायतामिति अभिसंधेर्निरङ्कुशत्वात्। श्रवणादिद्वारेणापि विद्या उत्पद्यमाना प्रतिबन्धक्षयापेक्षयैव उत्पद्यते। तथा च श्रुतिः दुर्बोधत्वमात्मनो दर्शयति श्रवणायापि बहुभिर्यो न लभ्यः श्रृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्योऽस्य वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः इति। गर्भस्थ एव च वामदेवः प्रतिपेदे ब्रह्मभावमिति वदन्ती जन्मान्तरसंचितात् साधनात् जन्मान्तरे विद्योत्पत्तिं दर्शयति न हि गर्भस्थस्यैव ऐहिकं किंचित्साधनं संभाव्यते। स्मृतावपि अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति इत्यर्जुनेन पृष्टो भगवान्वासुदेवः न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति इत्युक्त्वा पुनस्तस्य पुण्यलोकप्राप्तिं साधुकुले संभूतिं च अभिधाय अनन्तरम् तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् इत्यादिना अनेकजन्मसंसिद्धस्ततो याति परां गतिम् इत्यन्तेन एतदेव दर्शयति। तस्मात् ऐहिकम् आमुष्मिकं वा विद्याजन्म प्रतिबन्धक्षयापेक्षयेति स्थितम्।।