ब्रह्मसूत्र

अनारब्धकार्ये एव तु पूर्वे तदवधेः।।4.1.15।।

अनारब्धाधिकरणम्।।4.1.15।।

पूर्वयोरधिकरणयोर्ज्ञाननिमित्तः सुकृतदुष्कृतयोर्विनाशोऽवधारितः स किमविशेषेण आरब्धकार्ययोरनारब्धकार्ययोश्च भवति उत विशेषेणानारब्धकार्ययोरेवेति विचार्यते। तत्र उभे उ हैवैष एते तरति इत्येवमादिश्रुतिष्वविशेषश्रवणादविशेषेणैव क्षय इत्येवं प्राप्ते प्रत्याह अनारब्धकार्ये एव त्विति। अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन्नपि च जन्मनि प्राग्ज्ञानोत्पत्तेः संचिते सुकृतदुष्कृते ज्ञानाधिगमात् क्षीयेते न तु आरब्धकार्ये सामिभुक्तफले याभ्यामेतत् ब्रह्मज्ञानायतनं जन्म निर्मितम्। कुत एतत् तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये इति शरीरपातावधिकरणात्क्षेमप्राप्तेः इतरथा हि ज्ञानादशेषकर्मक्षये सति स्थितिहेत्वभावात् ज्ञानप्राप्त्यनन्तरमेव क्षेममश्नुवीत तत्र शरीरपातप्रतीक्षां न आचक्षीत। ननु वस्तुबलेनैव अयमकर्त्रात्मावबोधः कर्माणि क्षपयन् कथं कानिचित्क्षपयेत् कानिचिच्चोपेक्षेत न हि समानेऽग्निबीजसंपर्के केषांचिद्बीजशक्तिः क्षीयते केषांचिन्न क्षीयते इति शक्यमङ्गीकर्तुमिति उच्यते न तावदनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञानोत्पत्तिरुपपद्यते आश्रिते च तस्मिन्कुलालचक्रवत्प्रवृत्तवेगस्य अन्तराले प्रतिबन्धासंभवात् भवति वेगक्षयप्रतिपालनम्। अकर्त्रात्मबोधोऽपि हि मिथ्याज्ञानबाधनेन कर्माण्युच्छिनत्ति बाधितमपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत्संस्कारवशात्कंचित्कालमनुवर्तत एव। अपि च नैवात्र विवदितव्यम् ब्रह्मविदा कंचित्कालं शरीरं ध्रियते न वा ध्रियत इति कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते। तस्मादनारब्धकार्ययोरेव सुकृतदुष्कृतयोर्विद्यासामर्थ्यात्क्षय इति निर्णयः।।