ब्रह्मसूत्र

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्।।4.1.16।।

अग्निहोत्राद्यधिकरणम्।।4.1.16।।

पुण्यस्याप्यश्लेषविनाशयोरघन्यायोऽतिदिष्टः सोऽतिदेशः सर्वपुण्यविषय इत्याशङ्क्य प्रतिवक्ति अग्निहोत्रादि त्विति। तुशब्द आशङ्कामपनुदति यन्नित्यं कर्म वैदिकमग्निहोत्रादि तत् तत्कार्यायैव भवति ज्ञानस्य यत्कार्यं तदेव अस्यापि कार्यमित्यर्थः कुतः तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन इत्यादिदर्शनात्। ननु ज्ञानकर्मणोर्विलक्षणकार्यत्वात्कार्यैकत्वानुपपत्तिः नैष दोषः ज्वरमरणकार्ययोरपि दधिविषयोः गुडमन्त्रसंयुक्तयोस्तृप्तिपुष्टिकार्यदर्शनात् तद्वत् कर्मणोऽपि ज्ञानसंयुक्तस्य मोक्षकार्योपपत्तेः। ननु अनारभ्यो मोक्षः कथमस्य कर्मकार्यत्वमुच्यते नैष दोषः आरादुपकारकत्वात्कर्मणः ज्ञानस्यैव हि प्रापकं सत् कर्म प्रणाड्या मोक्षकारणमित्युपचर्यते अत एव च अतिक्रान्तविषयमेतत्कार्यैकत्वाभिधानम्। न हि ब्रह्मविद आगाम्यग्निहोत्रादि संभवति अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्याविषयत्वात्। सगुणासु तु विद्यासु कर्तृत्वानतिवृत्तेः संभवति आगाम्यपि अग्निहोत्रादि। तस्यापि निरभिसंधिनः कार्यान्तराभावाद्विद्यासंगत्युपपत्तिः।।

किंविषयं पुनरिदम् अश्लेषविनाशवचनम् किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् तस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम् इति अत उत्तरं पठति