ब्रह्मसूत्र

ब्रह्मदृष्टिरुत्कर्षात्।।4.1.5।।

ब्रह्मदृष्ट्यधिकरणम्।।4.1.5।।

तेष्वेव उदाहरणेष्वन्यः संशयः किमादित्यादिदृष्टयो ब्रह्मण्यध्यसितव्याः किं वा ब्रह्मदृष्टिरादित्यादिष्विति। कुतः संशयः सामानाधिकरण्ये कारणानवधारणात् अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यमुपलभ्यते आदित्यो ब्रह्म प्राणो ब्रह्म विद्युद्ब्रह्म इत्यादिसमानविभक्तिनिर्देशात् न च अत्र आञ्जसं सामानाधिकरण्यमवकल्पते अर्थान्तरवचनत्वाद्ब्रह्मादित्यादिशब्दानाम् न हि भवति गौरश्व इति सामानाधिकरण्यम्। ननु प्रकृतिविकारभावाद्ब्रह्मादित्यादीनां मृच्छरावादिवत्सामानाधिकरण्यं स्यात् नेत्युच्यते विकारप्रविलयो ह्येवं प्रकृतिसामानाधिकरण्यात्स्यात् ततश्च प्रतीकाभावप्रसङ्गमवोचाम परमात्मवाक्यं चेदं तदानीं स्यात् ततश्चोपासनाधिकारो बाध्येत परिमितविकारोपादानं च व्यर्थम्। तस्मात् ब्राह्मणोऽग्निर्वैश्वानरः इत्यादिवत् अन्यतरत्रान्यतरदृष्ट्यध्यासे सति क्व किंदृष्टिरध्यस्यतामिति संशयः। तत्र अनियमः नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्तम्। अथवा आदित्यादिदृष्टय एव ब्रह्मणि कर्तव्या इत्येवं प्राप्तम् एवं हि आदित्यादिदृष्टिभिः ब्रह्म उपासितं भवति ब्रह्मोपासनं च फलवदिति शास्त्रमर्यादा। तस्मात् न ब्रह्मदृष्टिरादित्यादिष्वित्येवं प्राप्ते

ब्रूमः ब्रह्मदृष्टिरेव आदित्यादिषु स्यादिति। कस्मात् उत्कर्षात् एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति उत्कृष्टदृष्टेस्तेष्वध्यासात् तथा च लौकिको न्यायोऽनुगतो भवति उत्कृष्टदृष्टिर्हि निकृष्टेऽध्यसितव्येति लौकिको न्यायः यथा राजदृष्टिः क्षत्तरि स च अनुसर्तव्यः विपर्यये प्रत्यवायप्रसङ्गात् न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात्। ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गः न च लौकिकेन न्यायेन शास्त्रीया दृष्टिर्नियन्तुं युक्तेति अत्रोच्यते निर्धारिते शास्त्रार्थे एतदेवं स्यात् संदिग्धे तु तस्मिन् तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमाणो न विरुध्यते तेन च उत्कृष्टदृष्ट्यध्यासे शास्त्रार्थेऽवधार्यमाणे निकृष्टदृष्टिमध्यस्यन्प्रत्यवेयादिति श्लिष्यते। प्राथम्याच्च आदित्यादिशब्दानां मुख्यार्थत्वम् अविरोधात् ग्रहीतव्यम् तैः स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्यासंभवात् ब्रह्मदृष्टिविधानार्थतैव अवतिष्ठते। इतिपरत्वादपि ब्रह्मशब्दस्य एष एवार्थो न्याय्यः तथा हि ब्रह्मेत्यादेशः ब्रह्मेत्युपासीत ब्रह्मेत्युपास्ते इति च सर्वत्रेतिपरं ब्रह्मशब्दमुच्चारयति शुद्धांस्तु आदित्यादिशब्दान् ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र शुक्तिवचन एव शुक्तिकाशब्दः रजतशब्दस्तु रजतप्रतीतिलक्षणार्थः प्रत्येत्येव हि केवलं रजतमिति न तु तत्र रजतमस्ति एवमत्रापि आदित्यादीन्ब्रह्मेति प्रतीयादिति गम्यते। वाक्यशेषोऽपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान्दर्शयति स य एतदेवं विद्वानादित्यं ब्रह्मेत्युपास्ते यो वाचं ब्रह्मेत्युपास्ते यः संकल्पं ब्रह्मेत्युपास्ते इति च। यत्तूक्तम् ब्रह्मोपासनमेवात्र आदरणीयं फलवत्त्वायेति तदयुक्तम् उक्तेन न्यायेन आदित्यादीनामेव उपास्यत्वावगमात् फलं तु अतिथ्याद्युपासन इव आदित्याद्युपासनेऽपि ब्रह्मैव दास्यति सर्वाध्यक्षत्वात् वर्णितं चैतत् फलमत उपपत्तेः इत्यत्र। ईदृशं च अत्र ब्रह्मण उपास्यत्वम् यत्प्रतीकेषु तद्दृष्ट्यध्यारोपणम् प्रतिमादिष्विव विष्ण्वादीनाम्।।