ब्रह्मसूत्र

तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया।।4.2.17।।

तदोकोऽधिकरणम्।।4.2.17।।

समाप्ता प्रासङ्गिकी परविद्यागता चिन्ता संप्रति तु अपरविद्याविषयामेव चिन्तामनुवर्तयति। समाना च आसृत्युपक्रमात् विद्वदविदुषोरुत्क्रान्तिः इत्युक्तम् तम् इदानीं सृत्युपक्रमं दर्शयति। तस्य उपसंहृतवागादिकलापस्योच्चिक्रमिषतो विज्ञानात्मनः ओकः आयतनं हृदयम् स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति इति श्रुतेः तदग्रप्रज्वलनपूर्विका चक्षुरादिस्थानापादाना च उत्क्रान्तिः श्रूयते तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः इति। सा किमनियमेनैव विद्वदविदुषोर्भवति अथास्ति कश्चिद्विदुषो विशेषनियमः इति विचिकित्सायाम् श्रुत्यविशेषादनियमप्राप्तौ आचष्टे समानेऽपि हि विद्वदविदुषोर्हृदयाग्रप्रद्योतने तत्प्रकाशितद्वारत्वे च मूर्धस्थानादेव विद्वान्निष्क्रामति स्थानान्तरेभ्यस्तु इतरे कुतः विद्यासामर्थ्यात् यदि विद्वानपि इतरवत् यतः कुतश्चिद्देहदेशात् उत्क्रामेत् नैव उत्कृष्टं लोकं लभेत तत्र अनर्थिकैव विद्या स्यात्। तच्छेषगत्यनुस्मृतियोगाच्च विद्याशेषभूता च मूर्धन्यनाडीसंबद्धा गतिः अनुशीलयितव्या विद्याविशेषेषु विहिता तामभ्यस्यन् तयैव प्रतिष्ठत इति युक्तम्। तस्मात् हृदयालयेन ब्रह्मणा सूपासितेन अनुगृहीतः तद्भावं समापन्नो विद्वान् मूर्धन्ययैव शताधिकया शतादतिरिक्तया एकशततम्या नाड्या निष्क्रामति इतराभिरितरे। तथा हि हार्दविद्यां प्रकृत्य समामनन्ति शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति इति।।