ब्रह्मसूत्र

रश्म्यनुसारी।।4.2.18।।

रश्म्यधिकरणम्।।4.2.18।।

अस्ति हार्दविद्या अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म इत्युपक्रम्य विहिता तत्प्रक्रियायाम् अथ या एता हृदयस्य नाड्यः इत्युपक्रम्य सप्रपञ्चं नाडीरश्मिसंबन्धमुक्त्वा उक्तम् अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते इति पुनश्चोक्तम् तयोर्ध्वमायन्नमृतत्वमेति इति तस्मात् शताधिकया नाड्या निष्क्रामन् रश्म्यनुसारी निष्क्रामतीति गम्यते। तत् किम् अविशेषेणैव अहनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम् आहोस्विदहन्येव इति संशये सति अविशेषश्रवणात् अविशेषेणैव तावत् रश्म्यनुसारीति प्रतिज्ञायते।।