ब्रह्मसूत्र

योगिनः प्रति च स्मर्यते स्मार्ते चैते।।4.2.21।।

।।4.2.21।।

योगिनः प्रति च अयम् अहरादिकालविनियोगः अनावृत्तये स्मर्यते स्मार्ते चैते योगसांख्ये न श्रौते अतो विषयभेदात् प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेषु विज्ञानेषु अवतारः। ननु अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्। धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते स्मृतावपीति उच्यते तं कालं वक्ष्यामि इति स्मृतौ कालप्रतिज्ञानात् विरोधमाशङ्क्य अयं परिहारः उक्तः। यदा पुनः स्मृतावपि अग्न्याद्या देवता एव आतिवाहिक्यो गृह्यन्ते तदा न कश्चिद्विरोध इति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य द्वितीयः पादः।।