ब्रह्मसूत्र

अतश्चायनेऽपि दक्षिणे।।4.2.20।।

दक्षिणायनाधिकरणम्।।4.2.20।।

अत एव च उदीक्षानुपपत्तेः अपाक्षिकफलत्वाच्च विद्यायाः अनियतकालत्वाच्च मृत्योः दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव विद्याफलम्। उत्तरायणमरणप्राशस्त्यप्रसिद्धेः भीष्मस्य च प्रतीक्षादर्शनात् आपूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासांस्तान् इति च श्रुतेः अपेक्षितव्यमुत्तरायणम् इतीमामाशङ्काम् अनेन सूत्रेणापनुदति प्राशस्त्यप्रसिद्धिः अविद्वद्विषया भीष्मस्य प्रतिपालनम् आचारपरिपालनार्थं पितृप्रसादलब्धस्वच्छन्दमृत्युताख्यापनार्थं च। श्रुतेस्तु अर्थं वक्ष्यति आतिवाहिकास्तल्लिङ्गात् इति।।

ननु च यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ इति कालप्राधान्येन उपक्रम्य अहरादिकालविशेषः स्मृतावनावृत्तये नियतः कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायात् इत्यत्रोच्यते