ब्रह्मसूत्र

भूतषु तच्छ्रुतेः।।4.2.5।।

।।4.2.5।।

स प्राणसंपृक्तोऽध्यक्षः तेजःसहचरितेषु भूतेषु देहबीजभूतेषु सूक्ष्मेषु अवतिष्ठत इत्यवगन्तव्यम् प्राणस्तेजसि इति श्रुतेः। ननु च इयं श्रुतिः प्राणस्य तेजसि स्थितिं दर्शयति न प्राणसंपृक्तस्याध्यक्षस्य नैष दोषः सोऽध्यक्षे इति अध्यक्षस्याप्यन्तराल उपसंख्यातत्वात् योऽपि हि स्रुघ्नान्मथुरां गत्वा मथुरायाः पाटलिपुत्रं व्रजति सोऽपि स्रुघ्नात्पाटलिपुत्रं यातीति शक्यते वदितुम् तस्मात् प्राणस्तेजसि इति प्राणसंपृक्तस्याध्यक्षस्यैव एतत् तेजःसहचरितेषु भूतेष्ववस्थानम्।।

कथं तेजःसहचरितेषु भूतेष्वित्युच्यते यावता एकमेव तेजः श्रूयते प्राणस्तेजसि इति अत आह