ब्रह्मसूत्र

सोऽध्यक्षे तदुपगमादिभ्यः।।4.2.4।।

अध्यक्षाधिकरणम्।।4.2.4।।

स्थितमेतत् यस्य यतो नोत्पत्तिः तस्य तस्मिन्वृत्तिप्रलयः न स्वरूपप्रलय इति इदमिदानीम् प्राणस्तेजसि इत्यत्र चिन्त्यते किं यथाश्रुति प्राणस्य तेजस्येव वृत्त्युपसंहारः किं वा देहेन्द्रियपञ्जराध्यक्षे जीव इति। तत्र श्रुतेरनतिशङ्क्यत्वात् प्राणस्य तेजस्येव संपत्तिः स्यात् अश्रुतकल्पनाया अन्याय्यत्वात् इत्येवं प्राप्ते प्रतिपद्यते सोऽध्यक्ष इति। स प्रकृतः प्राणः अध्यक्षे अविद्याकर्मपूर्वप्रज्ञोपाधिके विज्ञानात्मनि अवतिष्ठते तत्प्रधाना प्राणवृत्तिर्भवतीत्यर्थः कुतः तदुपगमादिभ्यः एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति यत्रैतदूर्ध्वोंच्छ्वासी भवति इति हि श्रुत्यन्तरम् अध्यक्षोपगामिनः सर्वान्प्राणान् अविशेषेण दर्शयति विशेषेण च तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इति पञ्चवृत्तेः प्राणस्य अध्यक्षानुगामितां दर्शयति तदनुवृत्तितां च इतरेषाम् प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति इति सविज्ञानो भवति इति च अध्यक्षस्य अन्तर्विज्ञानवत्त्वप्रदर्शनेन तस्मिन् अपीतकरणग्रामस्य प्राणस्य अवस्थानं गमयति। ननु प्राणस्तेजसि इति श्रूयते कथं प्राणोऽध्यक्षे इत्यधिकावापः क्रियते नैष दोषः अध्यक्षप्रधानत्वादुत्क्रमणादिव्यवहारस्य श्रुत्यन्तरगतस्यापि च विशेषस्यापेक्षणीयत्वात्।।

कथं तर्हि प्राणस्तेजसि इति श्रुतिरित्यत आह