ब्रह्मसूत्र

परं जैमिनिर्मुख्यत्वात्।।4.3.12।।

।।4.3.12।।

जैमिनिस्त्वाचार्यः स एनान्ब्रह्म गमयति इत्यत्र परमेव ब्रह्म प्रापयतीति मन्यते कुतः मुख्यत्वात्। परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् गौणमपरम् मुख्यगौणयोश्च मुख्ये संप्रत्ययो भवति।।