ब्रह्मसूत्र

विशेषं च दर्शयति।।4.3.16।।

।।4.3.16।।

नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात् फलविशेषम् उत्तरस्मिन्नुत्तरस्मिन् उपासने दर्शयति यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति वाग्वाव नाम्नो भूयसी यावद्वाचो गतं तत्रास्य यथाकामचारो भवति मनो वाव वाचो भूयः इत्यादिना। स च अयं फलविशेषः प्रतीकतन्त्रत्वादुपासनानाम् उपपद्यते। ब्रह्मतन्त्रत्वे तु ब्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात्। तस्मात् न प्रतीकालम्बनानाम् इतरैस्तुल्यफलत्वमिति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः।।