ब्रह्मसूत्र

मुक्तः प्रतिज्ञानात्।।4.4.2।।

।।4.4.2।।

योऽत्र अभिनिष्पद्यत इत्युक्तः स सर्वबन्धविनिर्मुक्तः शुद्धेनैव आत्मना अवतिष्ठते पूर्वत्र तुअन्धो भवत्यपि रोदितीव विनाशमेवापीतो भवतिइति च अवस्थात्रयकलुषितेन आत्मना इत्ययं विशेषः। कथं पुनरवगम्यतेमुक्तोऽयमिदानीं भवतीति प्रतिज्ञानादित्याह। तथा हि एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इति अवस्थात्रयदोषविहीनम् आत्मानम् व्याख्येयत्वेन प्रतिज्ञाय अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति च उपन्यस्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः इति च उपसंहरति तथा आख्यायिकोपक्रमेऽपि य आत्मापहतपाप्मा इत्यादि मुक्तात्मविषयमेव प्रतिज्ञानम्। फलत्वप्रसिद्धिरपि मोक्षस्य बन्धनिवृत्तिमात्रापेक्षा न अपूर्वोपजनापेक्षा। यदपि अभिनिष्पद्यत इत्युत्पत्तिपर्यायत्वम् तदपि न अपूर्वावस्थापेक्षम् यथा रोगनिवृत्तौ अरोगोऽभिनिष्पद्यत इति तद्वत्। तस्माददोषः।।